|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.31. अध्यायः 031
Mahabharata - Virata Parva - Chapter Topics
द्रोणेन दुर्योधनंप्रति पाण्डवानां धार्मिकत्वादिगुणशालितया विनाशाभावनिर्धारणेन तदन्वेषणविधानम् ॥ 1 ॥ भीष्मेण पाण्डवावासदेशस्य लक्षणाभिधानपूर्वकं तेषां दुर्ज्ञेयत्वस्यापि कथनेन तैः सह सन्धिविधानम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-31-0x(3122)(29609)
अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान्।
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥ 1 ॥ 4-31-1(29610)
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः।
धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ॥ 2 ॥ 4-31-2(29611)
नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम्।
धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ॥ 3 ॥ 4-31-3(29612)
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् ।
अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ॥ 4 ॥ 4-31-4(29613)
तेषां तथाविधेयानां निभृतानां महात्मनाम् ।
किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ॥ 5 ॥ 4-31-5(29614)
तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः।
न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ॥ 6 ॥ 4-31-6(29615)
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् ।
क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां ॥ 7 ॥ 4-31-7(29616)
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् ।
प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ॥ 8 ॥ 4-31-8(29617)
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् ।
दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ॥ 9 ॥ 4-31-9(29618)
शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः ।
तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ॥ 10 ॥ 4-31-10(29619)
तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे।
ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ॥ 11 ॥ 4-31-11(29620)
विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः ।
अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ॥ 12 ॥ 4-31-12(29621)
ततः शान्तनवो धीमान्भारतानां पितामहः ।
श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ॥ 13 ॥ 4-31-13(29622)
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः ।
अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् ॥ 14 ॥ 4-31-14(29623)
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम्।
पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ॥ 15 ॥ 4-31-15(29624)
असत्सु दुर्लभां नित्यं सतां चाभिमतां सद।
भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ॥ 16 ॥ 4-31-16(29625)
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित्।
श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः ॥ 17 ॥ 4-31-17(29626)
सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः।
वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ॥ 18 ॥ 4-31-18(29627)
समयं समयज्ञास्ते पालयन्तः शुभव्रताः।
न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ॥ 19 ॥ 4-31-19(29628)
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः।
न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ॥ 20 ॥ 4-31-20(29629)
क्षत्रधर्मरता नित्यं केशवानुगताः सदा।
प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ॥ 21 ॥ 4-31-21(29630)
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु।
न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ॥ 22 ॥ 4-31-22(29631)
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान्।
बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ॥ 23 ॥ 4-31-23(29632)
न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन ।
वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥ 24 ॥ 4-31-24(29633)
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः।
निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम्।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ 25 ॥ 4-31-25(29634)
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता।
यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ॥ 26 ॥ 4-31-26(29635)
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः।
निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप ॥ 27 ॥ 4-31-27(29636)
[भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः।
किमर्थं स महाराजो नात्मश्रेयो भविष्यति ॥ 28 ॥ 4-31-28(29637)
पाण्डवो निकृतः पूर्वं यथावद्विदितं तव।
क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम्।
छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ॥ 29 ॥ 4-31-29(29638)
वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम्।
आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं ॥ 30 ॥ 4-31-30(29639)
सोदरैः सहितं वीरं द्रौपद्या च परंतप।
संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ॥ 31 ॥ 4-31-31(29640)
यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः।
भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ॥ 32 ॥ 4-31-32(29641)
नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ]।
पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ॥ 33 ॥ 4-31-33(29642)
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः।
प्रियवाक्सत्यवाक्शूरो धर्मशीलो जितेन्द्रियः।
हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ॥ 34 ॥ 4-31-34(29643)
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी।
भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ॥ 35 ॥ 4-31-35(29644)
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च।
क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥ 36 ॥ 4-31-36(29645)
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।
संपन्नसस्या च मही भविष्यति निरामया ॥ 37 ॥ 4-31-37(29646)
रसवन्ति च धान्यानि गुणवन्ति फलानि च।
गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥ 38 ॥ 4-31-38(29647)
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः ।
नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ॥ 39 ॥ 4-31-39(29648)
न चोरा न च दण्डाश्च न च बाधा भवन्त्युत।
नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ॥ 40 ॥ 4-31-40(29649)
भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम्।
बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ॥ 41 ॥ 4-31-41(29650)
पयांसि दधिसर्पीषि रसवन्ति हितानि च ।
सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ॥ 42 ॥ 4-31-42(29651)
गुणवन्ति च पानानि भोज्यानि विविधानि च।
तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥ 43 ॥ 4-31-43(29652)
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः।
दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ 44 ॥ 4-31-44(29653)
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः।
स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे ।
देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ॥ 45 ॥ 4-31-45(29654)
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः।
देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ॥ 46 ॥ 4-31-46(29655)
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः ।
व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ॥ 47 ॥ 4-31-47(29656)
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः ।
भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ॥ 48 ॥ 4-31-48(29657)
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः।
भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ॥ 49 ॥ 4-31-49(29658)
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः।
किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ॥ 50 ॥ 4-31-50(29659)
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा।
ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ 51 ॥ 4-31-51(29660)
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः ।
गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ॥ 52 ॥ 4-31-52(29661)
एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे।
तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे।
कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ॥ 53 ॥ ॥ 4-31-53(29662)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|